शिवभारत अध्याय अकरावा

संप्रेष्य पुण्यविषयं सनयं तनयं शिवम् । शाहराजः किमकरोत् कर्णाटविषये वसन् ॥१॥ कथं च महमूदोऽपि तस्मिन् विजितविद्विषि । प्रसिद्धायोधनोत्साहे शाहे स्वयमवर्तत ॥२॥

शिवभारत अध्याय अकरावा

मनीषिण ऊचुः

संप्रेष्य पुण्यविषयं सनयं तनयं शिवम् ।

शाहराजः किमकरोत् कर्णाटविषये वसन् ॥१॥

कथं च महमूदोऽपि तस्मिन् विजितविद्विषि ।

प्रसिद्धायोधनोत्साहे शाहे स्वयमवर्तत ॥२॥

कवीन्द्र उवाच

षाड्गुण्यस्य प्रयोगेण तत्तन्मंत्रबलेन च ।

वशीचकार सकलं शाहः कर्णाटमंडलम् ॥३॥

प्रसूनमिव संप्राप्य प्रणयी प्रणतिस्पृशा ।

शिरसा प्रतिजग्राह जागद्देवोऽ‍स्य शासनम् ॥४॥

दुर्धर्षोऽपि विधेयोऽस्य बभूव मधुराधिपः ।

प्रतिपेदे महाशूरपतिरप्यस्य वश्यताम् ॥५॥

रणदूलहखानेन खलेनोपहृतं बलात् ।

भद्रास्नं स्वमध्यास्त वरिभद्रोऽ‍स्य संश्रयात् ॥६॥

तं तं मंत्रं तत्र तत्र प्रयुंजानस्य धीमतः ।

बहवोऽस्यानुभावेन जहुर्यवनजं भयम् ॥७॥

शाहराजस्य मंत्रेण भवन्नन्यसुदुःसहः ।

सर्वाणि स्वामिकार्याणि चकार रणदूलहः ॥८॥

अथ कालगतिं प्राप्ते सेनान्यां रणदूलहे ।

कार्णाटकान् नरपतीन् स्ववशीकर्तुमंजसा ॥९॥

यं यं सेनापतिं तत्र प्राहिणोत् किल येदिलः ।

स स तत्कांक्षिताकांक्षी शाहमेवान्ववर्तत ॥१०॥

ततो भृशबलं भूपं नियन्तुमनयं स्पृशन् ।

इभरामसुतो दर्पात् मुस्तुफाखानमादिशत् ॥११॥

अथाथानकनिनादेन सागरं प्रतिगर्जयन् ।

जयशब्देन योधानां दिड्मुखानि प्रपूरयन् ॥१२॥

तरलाभिः पताकाभिस्तडितः परितर्जयन् ।

उदग्रैश्शुंडिशुण्डाग्रैर्मुदिरान् प्रतिसारयन् ॥१३॥

पांसुभिस्तुरगोध्दूतैस्सप्तसप्तिं विलोपयन् ।

वाहिनीनिवहैरध्ववाहिनीः परिशोषयन् ॥१४॥

निम्नोन्नतां वसुमतीमतीव समतां नयन् ।

प्रपेदे सप्रतिभटैर्वृतं कर्णाटनीवृतम् ॥१५॥

ततः श्रुत्वा तमायान्तमनेकानीकपान्वितम् ।

प्राप्तसेनापतिपदं येदिलप्रत्ययास्पदम् ॥१६॥

प्रथितं मुस्तुफाखानं महामानं महान्वयम् ।

कपटानोकहभुवां खुरासानभुवां वरम् ॥१७॥

अविश्रब्धोऽपि विश्रंभमात्मनः संप्रदर्शयन् ।

प्रत्युज्जगाम संरभात् ससैन्यश्शाहभूपतिः ॥१८॥

अथाधिकाधिकं स्नेहं मिथो दर्शयतोस्तयोः ।

सख्योरिव महान् जज्ञे पथि संदर्शनोत्सवः ॥१९॥

उभावपि तदा तत्र वस्त्राण्याभरणानि च ।

कुंजरास्तुरगांश्चोच्चैरन्योन्यमुपजह्रतुः ॥२०॥

तदानीं मुस्तुफानीकनिवेशस्यांतिके निजाम् ।

सेनां निवेशयामास भूभृत् भृशबलो बली ॥२१॥

अद्राक्षीन्मुस्तुफाखानश्र्छिद्रान्वेषी यदा यदा ।

सन्नद्धमेव सुतरां शाहराजं तदा तदा ॥२२॥

प्रत्याययितुमात्मानं परिदर्शितसौहृदः ।

स तत्तत्कार्यकरणे शाहमेव पुरो व्यधात् ॥२३॥

प्रत्युत्थानेन तरसा दूरप्रत्युद्गमेन च ।

हस्ताश्लेषेण हर्षेण हस्तसंधारणेन च ॥२४॥

अर्धासनप्रदानेन संमुखीभवनेन च ।

स्मितपूर्वेण वचसा तथा प्रीतिस्पृशा दृशा ॥२५॥

तत्तन्मत्रप्रयोगाणां प्रकाशकरणेन च ।

तेषु तेषु च कार्येषु पुरस्कारेण भूयसा ॥२६॥

अर्हेण परिबर्हेण संस्तवेन स्तवेन च ।

परिहास रसेनोच्वैरध्यात्मकथनेन च ॥२७॥

हिताहंतोभ्द्रावनेन सवृत्तावेदनेन च ।

यवनः सोऽन्वहं तस्मै प्रत्ययं समदर्शयत् ॥२८॥

ततः स पृतनापालः समस्तान् पृतनापतीन् ।

आनाय्य न्यायनिपुणो विविक्ते वाक्यमब्रवीत् ॥२९॥

मुस्तुफाखान उवाच

यस्यान्नं भुज्यते येन मनुजेनानुजीविना ।

तस्य यो स भवेदात्मा नादसीयः कदाचन ॥३०॥

न महत्वं विना विद्यां न काव्यं प्रतिभां विना ।

कदाचिदपि नाभीष्टं दृष्टं स्वामिकृपां विना ॥३१॥

तस्माद् यः स्वामिनोऽर्थाय त्यजत्यात्मानमात्मनः ।

तमेव धन्यमित्याहुर्नीतितंत्रविदो जनाः ॥३२॥

न बांधवो न च सखा न संबंधी न सोदरः ।

न पिताप्यनुरोद्धव्यः स्वामिसेवापरात्मभिः ॥३३॥

यस्मिंस्तुष्टे तुष्टिमेति यस्मिन् रुष्टेऽस्तमेति च ।

तमनन्येन मनसा न विषेवेत कः पुमान् ॥३४॥

सर्वेऽपि वयमेतर्हि नियमे महति स्थिताः ।

संभूय महमूदस्य हिताय प्रयतेमहि ॥३५॥

यदद्य स्वामिना स्वेन महमूदेन मानिना ।

निग्राह्यश्शाह इति वै संदेश्यावेदितं मयि ॥३६॥

बली भृशबलो भूपः स यावन्नावबुध्यते ।

तावत्तद्धि विधातव्यमस्माभिः स्वहितार्थिभिः ॥३७॥

निशीथिनीमतीत्येमां महत्युश्यसि संहसाः ।

सहिताः सैनिकै स्वैः स्वैस्तन्निगृह्वीत पार्थिवम् ॥३८॥

इत्थमावेदितास्तेन मुस्तुफेनार्थसिद्धये ।

पृतनापतयः स्वं स्वं शिबिरं प्रतिपेदिरे ॥३९॥

मंत्रमेतदविद्धास्ते निशि यस्यामन्त्रयन् ।

तस्यामेव महोत्पाताः शाहस्य शिबिरेऽ‍भवन् ॥४०॥

सप्तयो दृक्पयोऽमुंचन्नरणन् करुणं गजाः ।

अतर्कितमभज्यंत क्रूरारवकृतो ध्वजाः ॥४१॥

चक्रिरे नाहता एव पटहाः क्रूरमारवम् ।

रजसा सहसावर्तं वितेने वातमण्डली ॥४२॥

अभ्रोदराद्विनैवाभ्रं करकाः परितोऽपतन् ।

विनैवांभोधरं व्योम्नः प्रादुरासीदिरंमदः ॥४३॥

न प्रदीपनवेलायां प्रदीपाः प्रदिदीपिरे ।

न प्रसेदुर्मनुष्याणां वदनानि मनांसि च ॥४४॥

अकारि पृतनोपांते शिवाभिरशिवो रवः ।

श्वभिरूर्ध्वमुखीभूय चक्रन्दे चातिनिंदितम् ॥४५॥

मुहुरभ्यर्णमभेय्त्य घूको घूत्कारमातनोत् ।

तथा वृकगणः क्रूरमारवं सहसाकरोत् ॥४६॥

चकंपिरे सुमनसां प्रतिमाः प्रतिमंदिरम् ।

अकस्मादर्धरात्रे च गौश्चक्रन्द निकेतगा ॥४७॥

इमान्यासन्निमित्तानि भयशंसीनि भूरिशः ।

तथाप्यवहितो नाभूत् भूपः स नियतेर्वशः ॥४८॥

सज्जीभूय निजे निजेऽद्य शिबिरे तिष्ठन्त्यनीकाधिपाः

सार्धं यैर्व्यदधन्निशार्धसमये मंत्रं चिरं मुस्तुफः ।

आगत्येति निवेदितं प्रणिधिभिः श्रुत्वातिसत्त्वाधिको

दैवायत्ततया न शाहनृपतिश्चक्रे तदात्वोचितम् ॥४९॥

इत्यनुपुराणे कवीन्द्रपरमानन्दप्रकाशितायां संहितायामेकादशोऽध्यायः ।