शिवभारत अध्याय चौदावा

कवींद्र उवाच प्रधने पातितं श्रुत्वा बलिनं हैबतात्मजम् । चुकोप शिवराजाय फत्तेखानः स्मयं वहन् ॥१॥ ततो मुसेखानमुखैर्यवनैस्सबलैर्वृतः । मत्तजित्प्रमुखैर्भूपैरनेकैश्वाभिरक्षितः ॥२॥

शिवभारत अध्याय चौदावा

कवींद्र उवाच

प्रधने पातितं श्रुत्वा बलिनं हैबतात्मजम् ।

चुकोप शिवराजाय फत्तेखानः स्मयं वहन् ॥१॥

ततो मुसेखानमुखैर्यवनैस्सबलैर्वृतः ।

मत्तजित्प्रमुखैर्भूपैरनेकैश्वाभिरक्षितः ॥२॥

मतंगजैरिवोन्मत्तैः सामन्तैश्च समंततः ।

युतस्सोऽभिययौ तूर्णं शिवराजजिगीषया ॥३॥

प्रचलन्मत्तमातंगचक्रनक्रसमाकुलम् ।

प्रोत्पतत्तरलोत्तुंगतुरंगतिमिमंडलम् ॥४॥

मारुतांदोलितानेकपताकोर्मिविराजितम् ।

धरातलोद्भूतरजोभरधाराधरोध्दुरम् ॥५॥

स्फुटहुंदुभिनिर्घाषं घोषोद्घोषितदिक्तटम् ।

सितातपत्रडिंडरिपिंडमंडलपांडुरम् ॥६॥

कठोरचर्मकमठं चंडकोदंडपन्नगम् ।

विस्फुरद्धेतिवडवानलप्रतिभयप्रदम् ॥७॥

समरार्थी समादाय तरसा सैन्यसागरम् ।

स येदिलचमूपालः पश्यति स्म पुरंदरम् ॥८॥

साभिमानः फतेखानः प्रचलंतीं प्रभाविणीम् ।

अविदूरे गिरेस्तस्य न्यवेशयत वाहिनीम् ॥९॥

शाहसूनुस्तदालोक्य द्विषत्सैन्यमुपागतम् ।

न्यध्वानयद् गिरेस्तस्य शिखरे संगरानकम् ॥१०॥

तेनानकनिनादेन परसैनिकमानसम् ।

चकंपे पवनेनेव सरः सपदि मानसम् ॥११॥

अथ मानी फतेखान समानगुणशालिभिः ।

मुसेखाजप्रभृतिभिर्महाहंकारकारिभिः ॥१२॥

कल्पानलसमप्रानकृपाणवरधारिभिः ।

प्रवृद्धाभ्याहवोत्साहैः ससन्नाहैः प्रभाविभिः ॥१३॥

धीरैः परिवृतो वीरैः क्ष्वेडारवविधायिभिः ।

सद्यः पुरंदरं शैलमारोढुमुपचक्रमे ॥१४॥

विदारिताभ्रगर्भाणि क्ष्वेडितानि वितन्वतः ।

तस्यानीकस्य महतो धरंतमधिरोहतः ॥१५॥

अभूत् पृष्ठे फतेखानो मुसेखानोमुखेऽभवत् ।

फलस्थानपतिस्सव्ये पार्श्वेऽन्यत्र च घांटिकः ॥१६॥

ददुर्नैवपदं भूमौ येन्वहं यानयायिनः ।

ते तमारुरुहुश्शैलं तदा बत निजैः पदैः ॥१७॥

अचलारोहणपरांस्ततोदृष्ट्वाभितः परान् ।

शिवसेनाधिपतयः क्रुद्धास्सिंहा इवानदन् ॥१८॥

प्रज्वलद्भिरयःपिंडैर्नालायंत्रास्यनिःसृतैः ।

नलिकागुळिकाभिश्च गंडशैलैरनेकशः ॥१९॥

उल्काबाणैश्च शतशो भिंदिपालैश्च भूरिशः ।

परानवाकिरन् भूरि शिवशूरास्सहस्रशः ॥२०॥

शिलोच्चयपरिभ्रष्टानूपनानृरुविग्रहान् ।

यांस्तले पातयामासुः शिवसैन्याः किलोध्दुरान् ॥२१॥

दूरादापततां तेषां संघट्टादध्वसंस्थिताः ।

धाराधरारवधराः समुध्दूतरजोभवाः ॥२२॥

पृथुलास्तत्क्षणोन्मीलत्प्रचुराग्निकणाकुलाः ।

……………………………………….. ॥२३॥

उपलाश्शकलीभूताः प्रभूताः परितोंऽबरम् ।

प्रोत्पत्य प्राहरन्नुच्चैस्तदुपेतं द्विषद्वलम् ॥२४॥

दूरंमदप्रतिभयैर्वालजालमयैस्तदा ।

अग्नियंत्रोद्नतैरश्मसारपिंडैरनेकशः ॥२५॥

खडशः खंडशोभूतास्ते येदिलचमूभटाः ।

खगा इव खमुत्पत्य श्येनश्रेणिमतर्पयन् ॥२६॥

उल्काबाणाः क्षणे तस्मिन् उंपाहितसलक्षणाः ।

प्रोद्भवद्दारुणारावमापतंतो नभोंगणात् ॥२७॥

गरलज्वलनज्वालाननाः किमनिलाशनाः ।

भ्रांत्वा भ्रांत्वा परिभ्रांतां विदधुर्यावनीं चमूम ॥२८॥

एकापि गुळिका तत्र नलिकायंत्रनिर्गता ।

भित्वाभ्यपातयद् भूमौ जवना यवनान् बहून् ॥२९॥

गिरिस्थपरिमुक्ताभिः शिलाभिश्शीर्णवक्षसः ।

केचित्प्रपद्य वैचित्त्यमध्वनोर्ह्येवतस्थिरे ॥३०॥

गिरेस्तस्य तटे लग्नाः केऽपि भग्ना महाश्मभिः ।

वमन्तो लोहितं भूरि रक्तवालुकलोहितम् ॥३१॥

समुह्यानुप्लवैरुह्यमानाः प्राणावनार्थिनः ।

परावृत्य रयादात्मशिबिराय प्रतस्थिरे ॥३२॥

गुलिकायन्त्रनिर्यातगुलिकाभिन्नविग्रहाः ।

जलयन्त्रजलाकारकीलालोत्कलिकाकुलाः ॥३३॥

संजातसंज्वरावेशभरास्तनुतरस्वराः ।

केचित्पितासिता एव कृतान्ततिथितां ययुः ॥३४॥

पताकिनीं तामालोक्य द्विषत्कृतपराभवाम् ।

मुसेखानः सजातीयान्सुभटानभ्यभाषत ॥३५॥

मुसेखान उवाच

अमी महाश्मनां पाताः किमुत्पाताः पदे पदे ।

समन्तादापतन्तोऽमून् पातयन्ति चमूपतीन् ॥३६॥

अहो महोदयोऽमुष्य पुरन्दरपतेरयम् ।

यदस्मानपि विक्रान्तान् विक्रम्याक्रामति स्वयम् ॥३७॥

निस्त्रिंशप्रभवं लोके येषां नः प्रथितं यशः ।

अपयानमितस्तेषां नितान्तमयशस्करम् ॥३८॥

मैव दद्ध्वं पदं पश्चात् पुरः पश्यत भूधरम् ।

न जहाति जयः प्रायः संपरायस्थितं नरम् ॥३९॥

इति ब्रुवाण एवायं समन्तैरनिवर्तिभिः ।

पुरन्दराचलतरामारुरोह महामनाः ॥४०॥

अथो शरफशाहेन सैनिकैः स्वैश्च भूरिशः ।

उभाभ्यामपि शेखाभ्यां राज्ञा मत्रजिता तथा ॥४१॥

प्रबलेन फलस्थाननायकेन च रंहसा ।

फतेखानस्य चानीकैः सामंतैरप्यनेकशः ॥४२॥

सनिर्घोषैर्महोमेघैर्महामेघ इवाभितः

तमारोहंतमालोक्य पुरंदरतटीं रुषा ॥४३॥

सद्यश्शिवतमादिष्टाः क्षेपिष्ठाः सर्वतो दिशम् ।

गोदप्रभृतयो योधाः प्रत्यगृण्हन्नुदायुधाः ॥४४॥

मुसेखानप्रभृतयोप्यमून् परचमूभटान् ।

अभीयुरभियाभ्येत्य ग्रहा इव महाग्रहान् ॥४५॥

तदा शरफशाहेन सदोभुजमदोद्धतः ।

मुसेखानेन सरुषा जगत्स्थापकवंशजः ॥४६॥

मिनादरतनाभ्यां तु युयुधे भैरवाभिधः ।

घांटिकेन च वीरेण व्याघ्रश्शीघ्रतरायुधः ॥४७॥

महामानी गदापाणिः प्रबलानीकिनी युतः ।

सैन्यैरन्यैश्च बहुभिर्वह्वयुघ्यत कावुकः ॥४८॥

अभ्याहवस्मयभृतो युगव्यायतबाहवः ।

वरशीर्षण्यशीर्षाणोवर्मसंवृत विग्रहाः ॥४९॥

ते तेऽनीकद्वयीयोधाः सविरोधाः परस्परम् ।

शरासनं विधुन्वानाः संदधानाश्शितं शरम् ॥५०॥

भूयोभूयस्सहस्वेति भाषमाणास्स्मयाभृतम् ।

तटे पुरंदरगिरेस्तदा युयुधिरेऽद्भुतम् ॥५१॥

तदा पुरंदरार्थाय प्रहरंतः परस्परम् ।

नैकेऽवरोदुमारोढुं बत नैके तदा शकन् ॥५२॥

अवलोक्य बतान्योन्यमानीय च शरव्यताम् ।

एके भुवस्तलं बाणैः प्यधुरन्ये दिवस्तलम् ॥५३॥

यः कस्यचिदुरो भित्वा भुजं चिच्छेद कस्यचित् ।

स एवेषुस्सशीर्षण्यमन्यदीयं शिरो हरत् ॥५४॥

तत्र प्रसभमभ्येत्य गोदः क्रोधरयोद्धतः ।

निचखान क्ष्णुतं भल्लं मुसेखानभुजांतरे ॥५५॥

निशातं विद्विषा तेन निखातं निजवक्षसि ।

यवनस्स तु तं भल्लं भीमं सन्नाहभेदिनम् ॥५६॥

उभाभ्यामपि पाणिभ्यामुद्धृत्य स्वभुजांतरात् ।

रोषदष्टाधरतलः सद्य एव द्विधा व्यधात् ॥५७॥

अलंचकार तं तत्र रुधिरार्द्रमुरस्स्थलम् ।

यथा शिलोच्चयं सांद्रगैरिकाक्तशिलातलम् ॥५८॥

इहांतरे खङ्गचर्मधारी धीरः सदः स्यदात् ।

योध्द्रा शरफशाहेन योध्दुमद्धाभ्यपद्यत ॥५९॥

उभावपि युधामत्तौ रक्तनेत्रावुभावपि ।

उभावपि ससन्नाहौ महोत्साहावुभावीप ॥६०॥

स्वया स्वयासिलतया परिनर्तितया भृशम् ।

दिवं सौदामिनीद्योतैर्दीपयंतावुभावपि ॥६१॥

परस्परांतरप्रेक्षापरौ पंचाननस्वरौ ।

भ्रांतोद्भ्रांतादिकान् भेदान् दर्शयंतौ विरेजतुः ॥६२॥

अथासितातैरन्योन्यविहितैः क्षतविग्रहौ ।

एकेनैव क्षणेनैतौ रुधिराद्रो बभूवतुः ॥६३॥

व्याघ्रस्तु पुरुषव्याघ्रं घांटिकं घोरशक्तिकम् ।

प्रजहार भुजस्तंभे शक्त्यानिशितया द्रुतम् ॥६४॥

ततस्स्रवद्सृग्दिग्धदेहो युद्धविशारदः ।

शक्त्यैव घांटिकोत्युचैः प्रवेष्टे तमताडयत् ॥६५॥

तदामुना हन्यमानो व्याघ्रो व्याघ्र इवापरः ।

स्वशौर्यं दर्शयामास हर्षयामास च स्वकान् ॥६६॥

आकर्णाकृष्टधन्वानौ मिनादरतनावपि ।

अभ्येतं भैरवं चोरं छादयामासतुः शरैः ॥६७॥

ताभ्यामुभाभ्यामुन्मुक्तैः शरैर्नीतं शरव्यताम् ।

अवाप्तचालनीभावं तदभ्राजत तद्वपुः ॥६८॥

स एकोद्वाविमौ तत्र युद्धमप्यभवच्चिरम् ।

तथापि भैरवश्चोरः प्रतिपेदे जयश्रियम् ॥६९॥

कावुकेनापि सरुषा पावकप्रतिमौजसा ।

गदाघातेन महता शायिताश्शतशो द्विषः ॥७०॥

विशीर्णवरवर्माणो विदीर्णतरवक्षसः ।

सहसा परिमुह्यंतो हस्तविस्प्रस्तहेतयः ॥७१॥

प्रतिप्रतीकनिर्गच्छद्रक्तरंजितभूमयः ।

आयोधनाजिरेऽमुष्मिन्निपतंतो विरेजिरे ॥७२॥

विगलद्रक्तरक्तांगाः सुभटास्ते बभुस्तदा ।

निर्झरोद्गारसंपृक्तगैरिकार्द्रा इवाद्रयः ॥७३॥

तत्र तेषा परेषां च तदभ्याहवकौतुकम् ।

व्यलोकत शिवोऽप्यद्धा वीरो वीरश्रियोल्लसन् ॥७४॥

तदा पुरंदरतटादतिमात्रस्मयोद्धता ।

प्रणदंती प्रववृते लोहितोदा महानदी ॥७५॥

आरुह्य व्योमयानानि द्योतयंतो दिवोंतरम् ।

दर्शं दर्शं सुरास्सर्वे प्रशशंसुर्महादृवम् ॥७६॥

तत्कालकलितोद्दाममुंडमाला मनोहरः ।

प्रावर्तत मुदा तत्र प्रमथैस्सहितो हरः ॥७७॥

अतिमात्रं जिघत्संतस्तत्क्षणाधिगतक्षणाः ।

अतृप्यन् प्रचुरं प्रपय पिशितं पिशिताशनाः ॥७८॥

प्रेतरं कोंऽकमारोप्य करंकमकुतोभयः ।

संपृक्तशोणितरसं तरसं बुबुधे तदा ॥७९॥

उद्दामोड्डानशौंडाभिर्डाकिनीभिस्समं तदा ।

वपूंषि पुपुषुः स्वानि शाकिन्यस्सैनिकामिषैः ॥८०॥

कवींद्र उवाच

यथा तत्र मुसेखानो गोदेन निहतस्तदा ।

निशम्यतां तथा सर्वमधिधास्याम्यथ द्विजाः ॥८१॥

मुसेखानेन बलिना भग्नभल्लस्सकोपनः ।

कालकाकोदराकारकरवालकरोऽभवत् ॥८२॥

तत्र तत्करवालेन तडिदाकारधारिणा ।

पेतुः पठाणाः शतशः शकलीभूय भूतले ॥८३॥

मुसेखानस्तु तद्दृष्ट्वा तस्यकर्मातिमानुषम् ।

तमात्मकरवालेन भुजे सव्ये व्यताडयत् ॥८४॥

ताडितस्स भुजे मुसेखानेन वेगिना ।

नावेपत महावीरो वातेनेववनद्रुमः ॥८५॥

निबद्धभ्रूपुटौ भूरिरोषरूक्षेक्षणावुभौ ।

गतप्रत्यागतकरौ घोरखङ्गलताकरौ ॥८६॥

द्विरदा इव नर्दंतौ प्रहरंतौ परस्परम् ।

विशीर्यमाणशीर्षण्यतनुत्रौ तौ विरेजतुः ॥८७॥

अथान्योन्यायुधाघातदीर्यमाआण्वुभाविमौ ।

समं रुधिरधाराभिर्वसुधामभ्यषिंचताम् ॥८८॥

क्षणमात्रमहो तत्र युद्धमासीत्तयोस्समम् ।

ततस्तत् कृततोदोपि ततो गोदोऽधिकोभवत् ॥८९॥

अथप्रहारैर्बहुभिर्निर्भरं विह्वलोऽपि सन् ।

बली स पातयामास खङ्गं गोदेस्य मूर्धनि ॥९०॥

यावदापतति ह्यस्य करवालस्स्वमूर्धनि ।

तावद्गोदोसिनास्वेन तमरातिमताडयत् ॥९१॥

ताडितःस तदा तत्र गोदेन क्रोधमूर्तिना ।

आस्कंधभागमामध्यभागं भिन्नो द्विधाभवत् ॥९२॥

निपातितं तदा तस्य द्विधाभूतं कलेवरम् ।

अभूच्च रुधिरोद्गारैररुणं धरणितलम् ॥९३॥

जगत्स्थापकवंश्येन मुसेखाने निपातिते ।

शतशस्तत्र यवनाः शमनातिथयोऽभवन् ॥९४॥

सदेन खङ्गिनाखङ्गयुद्धं योद्धुमपारयन् ।

परः शरासनं गर्वादर्वाग्भूयाग्र्यमग्रहीत् ॥९५॥

ततोऽशरफशाहस्य तुदतस्ते जितैश्शरैः ।

विकृष्यमाणमौर्वीकं व्योमांतवलयायितम् ॥९६॥

अनेकवर्णनिन्यासमिंद्रायुधमिवायतम् ।

धनुरभ्येत्य चिच्छेद करवालकरस्सदः ॥९७॥

स तेन शीघ्रहस्तेन द्विषता द्विदलीकृतम् ।

विचित्रवर्णदुर्वर्णबिंदुराजिविराजितम् ॥९८॥

तदा तदाहवसखं विहाय विशिखासनम् ।

सद्यस्तमहितं हन्तुं घोरं परिघमाददे ॥९९॥

पंचाननसमस्तन्वातन्वानोतितमां युधम् ।

गृहीतमात्रं चिच्छेद सदस्तस्य तदायुधम् ॥१००॥

आदत्त तत्र हस्ते स्वे स म्लेच्छो यद्यदायुधम् ।

सदो वीररसावेशात् तरसा तत्तदच्छिनत् ॥१०१॥

ततो निरायुधो भूत्वा कृत्वानभिमुखं मुखम् ।

यवनस्स परावृत्तिपथं लेभे यथासुखम् ॥१०२॥

अथ प्रतिभटात्तस्मात् घांटिकोऽपि द्रुतं तथा ।

अपद्रुतश्चिरं युद्ध्वा द्विरदाद्द्विरदो यथा ॥१०३॥

भैरवं भैरवं मत्वा मिनादरतनावपि ।

संवर्तसमयप्रायात् संपरायादपेयतुः ॥१०४॥

पुरंदरात् परावर्तमानां त्राणार्थिंनीं चमूम् ।

नालोकत फतेखानो ग्लानोऽनभिमुखीभवन् ॥१०५॥

अभिमुखमुपायातं तत्र प्रभूतबलं बला –

द्युधि किल फतेखानं भंक्त्वा स शाहनृपात्मजः ।

अविहतगतिर्दैवोद्रेकादुदित्वरविक्रमो

विजयपुरभूशक्रं जेतुं बताभिमुखोऽभवत् ॥१०६॥

भृशं युद्ध्वावाप्तः शिवधरणिपालादभिभवं

फतेखानो म्लानो विजयपुरमभ्यर्णमकरोत् ।

तमाकर्ण्योदन्तं सदसि महमूदेन सहसा

ममज्जे चिंताब्धौ सुचिरमनुतप्तेन मनसा ॥१०७॥

इत्यनुपुराणे कवींद्र परमानंद प्रकाशितायां मुसेखानवधोनाम चतुर्दशोऽध्यायः ॥१४॥