शिवभारत अध्याय तेरावा

मनीषिण ऊचुः । अथ स्वपितरं श्रुत्वा निगृहीतमरातिभिः । शम्भुराजः किमकरोत् तथा शिवमहीपतिः ॥१॥ तं निगृह्य महाराजं मुस्तुफो वाहिनीपतिः । व्यधत्त किमधर्मात्मा महमूदश्च दुर्मतिः ॥२॥

शिवभारत अध्याय तेरावा

मनीषिण ऊचुः ।

अथ स्वपितरं श्रुत्वा निगृहीतमरातिभिः ।

शम्भुराजः किमकरोत् तथा शिवमहीपतिः ॥१॥

तं निगृह्य महाराजं मुस्तुफो वाहिनीपतिः ।

व्यधत्त किमधर्मात्मा महमूदश्च दुर्मतिः ॥२॥

कवीन्द्र उवाच ।

शम्भुः स्वपितरं श्रुत्वा निगृहीतमरातिभिः ।

चुकोप मुस्तुफायोच्चैर्बिङ्गरूरं पुरं श्रयन् ॥३॥

निशम्य शिवराजोऽपि शाहराजदशामिमाम् ।

येदिलस्यापकाराय प्रतिजज्ञे प्रतापवान् ॥४॥

मुस्तुफस्तु महामानी बिङ्गरूरजिधृक्षया ।

रयान्नृपं तानजितं डुरान्वयधुरन्धरम् ॥५॥

तथा विठ्ठलगोपालं विप्रं क्षात्रोपजीविनम् ।

प्रौढं फरादखानं च सद्यः प्रस्थातुमादिशत् ॥६॥

तदानीं महमूदोऽपि मेघावी पृतनापतीन् ।

योगमाज्ञापयामास शिवस्य विषयं प्रति ॥७॥

अथ सेनापतिर्नाम फत्तेखानो महामनाः ।

मिनादरतनौ शेखौ फत्तेखानश्च कोपनः ॥८॥

क्रूरो शरफशाहश्च धन्वधारी यशोधनः ।

सन्नाहसहिता एते यवनाः सज्जसाधनाः ॥९॥

घाण्टिको मत्तराजश्च कुलिशोपमसायकः ।

तथा फलस्थानपतिर्बलवान् बाजनायकः ॥१०॥

सामन्ताः शतशश्चान्ये स्वर्णपृष्ठशरासनाः ।

स्वर्णसारसनाः स्वर्णवसनाः स्वर्णकेतनाः ॥११॥

स्वर्णचन्द्रकमुद्राङ्किफलकद्युतिशालिनः ।

तस्थुराक्रम्य तरसा पुरं बिल्वसरोऽभिधम् ॥१२॥

तथा हैबतराजस्य सुतो बल्लाळसंज्ञकः ।

कृतहस्तः कृती क्रूरकर्मा द्रौणिरिवाप्रः ॥१३॥

सिंहसंहननोऽनेकैरनीकैः परिवारितः ।

पुरं शिरोबलं प्राप शिवसैन्येरवारितः ॥१४॥

पुरन्दरशिरोवर्ती पुरन्दरसुतोपमः ।

तदा तदागमं श्रुत्वा शिवः स्मेरनताननः ॥१५॥

सन्नाहवान् धनुर्बाणपाणिः सन्नध्दसाधनः ।

सीरायुधसमान् धीरान् स्ववीरानिदमब्रवीत् ॥१६॥

शिव उवाच ।

विश्वस्तो मुस्तुफाखाने महाराजः पिता मम ।

अहो व्यसनमापन्नः सम्पन्नः सम्पदा स्वया ॥१७॥

न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।

विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥१८॥

इति व्यासस्य वचनं श्रुतवानपि पार्थिवः ।

अविश्वास्यतरे तस्मिन् अहो विश्वस्ततां गतः ॥१९॥

अविज्ञातेङ्गितगतिः श्रितयेदिलशासनः ।

निजग्राह महाराजं मुस्तुफो यवनाधमः ॥२०॥

विश्वस्तः स्वर्णहरिणे हरिणाक्ष्या प्रणोदितः ।

वञ्चितो दशवक्त्रेण सोऽपि दाशरथिर्नृपः ॥२१॥

अतिविश्रब्धतां नीत्वा विप्रलब्धो मरुत्वता ।

पपात त्रिदिवात्तूर्णं ययातिर्नहुषात्मजः ॥२२॥

सहजं कवचं बिभ्रद्विश्वस्तो बलविद्विषा ।

तथा स विहितः कर्णः पार्थेन निहतो यथा ॥२३॥

विश्वस्तो धर्मराजोऽपि भरतानां धुरन्धरः ।

सुयोधनसहायेन द्यूते शकुनिना जितः ॥२४॥

अतो वैरिषु विश्वासं न कूर्वीत विचक्षणः ।

येन सम्यगधीतोऽस्ति राजधर्मः सलक्षणः ॥२५॥

हालाहलधराश्लेषो हालाहलनिषेवणम् ।

विद्विषत्सु च विश्वासस्त्रौयमेतत्समं स्मृतम् ॥२६॥

लालनं कपिबालानां कालपन्नगचालनम् ।

तथा स्यादपकाराय खलप्रणयपालनम् ॥२७॥

यथान्धमन्दिरालिन्दमध्यदीपकदीपनम् ।

यथा स्त्रोतस्विनीस्रोतः सिकतासेतुबन्धनम् ॥२८॥

यथा शकलितानर्घ्यमुक्तासंधानसाधनम् ।

यथा च जगति ख्यातं कदलीकाण्डदारणम् ॥२९॥

यथा ह्याकाशखननं यथा सलिलताडनम् ।

तथा परिश्रमायैव भवेदसदुपासनम् ॥३०॥

द्विषि विश्वसता येन नीतिशास्त्रं न तत्स्मृतम् ।

किं तेन खदिराङ्गरपर्यङ्कशयनं कृतम् ॥३१॥

भवेद्यदि सतृष्णस्य वैतृष्ण्यं मृगतृष्णया ।

तर्हि स्यादेव निखिलं कुशलं खलसेवया ॥३२॥

सुषिरान्वेषपरः परस्पर्धाकरः खलः ।

आहितोप्यहितो ज्ञेयो नावज्ञेयो विजानता ॥३३॥

रक्षितं राष्ट्रमखिलं वाक्यं च परिपालितम् ।

अमुष्य महमूदस्य महाराजेन किं कृतम् ॥३४॥

हितानामहितो भूत्वा महितोपि स्वया श्रिया ।

अहो येदिलशाहोयं न सीदति निराश्रयः ॥३५॥

रुद्धः फरादखानाद्यैर्विरुध्दैरुध्दतस्मयः ।

योत्स्यते तत्र मे भ्राता बिंगरूरपुराश्रयः ॥३६॥

इमानि गिरिदुर्गाणि पालयन्नातिनिर्वृतः ।

योत्स्येहमहितैरत्न सन्नध्दानीकसंयुतः ॥३७॥

अहमत्र स्वयं तत्र शंभुराजः पराक्रमी ।

मोचयिष्यावहे तातं युध्यमानावुभावपि ॥३८॥

अथास्मदभिभूतात्मा महमूदः सुंदुर्मदः ।

सहैव स्वेन दर्पेण महाराजं विमोक्ष्यति ॥३९॥

स्वेन धर्मेण सहितं महितं तातमावयोः ।

महमूदो न चेन्मोक्ता तर्हि भोक्ता स्वकर्म तत् ॥४०॥

यर्हि मोहान्महाराजं येदिलः प्रहरिष्यति ।

तर्हि तं सहितं सद्यस्तात एव हनिष्यति ॥४१॥

अनारतं मनो येषां धर्मपाशनिबंधनम् ।

अलं न तेषां बंधाय कारागारादिबंधनम् ॥४२॥

गृहीता महिता लोके जयवल्ली मया पुरा ।

स्थापितश्चंद्रराजश्च तस्यां तदभिलाषुकः ॥४३॥

घोरात्मनो घोरफटाः कुपिता इव पन्नगाः ।

मां जांगुलिकमालोक्य महतीं शांतिमागताः ॥४४॥

प्रस्थाय प्रथनाय द्राक् मया विद्रावितः पुरा ।

जीवन्नादाय मुक्तश्च फलस्थानपुरेश्वरः ॥४५॥

एतेऽधुना समुदिताः फतेखानादयो भटाः ।

योत्स्यन्तेऽ‍स्मान् समासाद्य द्विपा इव मदोत्कटाः ॥४६॥

बलीयानेष बल्लाळः पालयन् प्रबलं बलम् ।

मन्यते बहुमात्मानं समादाय शिरोबलम् ॥४७॥

अतो द्रुतमितो गत्वा तमेव बलिनां वरम् ।

विनिगृह्य भवन्तोऽद्य मोचयंतु शिरोबलम् ॥४८॥

अथ श्वोवा परश्वोवा फतेखानं महाबलम् ।

अत्र वा तत्र वा वीक्ष्य प्रतियोत्स्यामहे वयम् ॥४९॥

कवींद्र उवाच ।

शिवस्येति वचः श्रुत्वा सैनिकास्ते सहस्रशः ।

पुष्करं पूरयामासुः सिंहनादेन भूयसा ॥५०॥

अथारातिप्रमथनो जगत्स्थापकवंशजः ।

प्रवृध्दप्रथनामोदो गोदोनाम महायुधः ॥५१॥

व्याघ्रान्वयस्तथा भीमो भीमो भीम इवापरः ।

दलितद्वेषिदो‍ःस्तंभदंभस्संभश्च कांटिकः ॥५२॥

शृंगारस्संगरांगानामिंगालकुलसंभवः ।

शिवश्चोत्तालकुंताग्रः करालः कालसन्निभः ॥५३॥

परवीरश्रियां चोरश्चोरवंश्यो गणाग्रणीः ।

भीकोऽतिभीषणानीकोऽत्यभीको रणकर्मणि ॥५४॥

वैरिवित्रासजननो युधि भैरवभैरवः ।

सभाभिर्भासमानोऽस्य सनाभिरपि भैरवः ॥५५॥

अमी शैलपतेश्शूराः सूरा इव सतेजसः ।

स्वया स्वया श्रिया रम्याः प्रणम्यामुं प्रतस्थिते ॥५६॥

आध्यक्ष्ये शिव एतेषां न्ययोजयत कावुकम् ।

सर्वेषां वृष्णिवीराणां वासुदेव इवाहुकम् ॥५७॥

सन्नाहैः स्वैः समाकीर्णास्तेऽवतीर्णाः पुरंदरात् ।

अंबुदा इव गर्जतः सन्नध्दतरसैंधवाः ॥५८॥

तामतीत्य निशां तत्र प्रतीपविजिगीषया ।

प्रयाणाभिमुखीभूय कारयामासुरानकान् ॥५९॥

अथ पद्भिः पदातीनां भिन्दंत इव भूतलम् ।

कर्तयंत इवाश्वीयवर्तकैर्व्योममंडलम् ॥६०॥

प्रकिरन्त इवारीणामुपरि प्रलयानलम् ।

शूरास्ते ददृशुस्सद्यो विकुर्वाणाश्शिरोबलम् ॥६१॥

परस्तु बलवद्वीक्ष्य शिवसैन्यमुपागतम् ।

निजगाद निजानीकपत्तीनतिमतीनिदम् ॥६२॥

बल्लाळ उवाच

मा भैष्ट स्मयबंहिष्ठमवलोक्य द्विषद्वलम् ।

प्रधने निधनं श्रेष्ठमश्रेष्ठं हि पलायनम् ॥६३॥

फतेखानमतेनैते वयं प्राप्ताश्शिरोबलम् ।

अवस्थानमिहास्माकं ध्रुवस्थानमिव ध्रुवम् ॥६४॥

यदि वो भयमेतर्हि तर्हि सद्यो ममाज्ञया ।

द्वितीयमिवमामत्र वप्रमालंब्य तिष्ठत ॥६५॥

न ह्यस्मन्निधनेनैव स्वामिकार्यं प्रसिध्यति ।

अतो युध्दाय महते वप्रमेवाश्रयामहे ॥६६॥

क्षोदिष्ठमपि दिष्टेन दिष्टेऽमुष्मिन् सुदुर्गमे ॥

दुर्गमेतध्दि सिधिन्नो युध्दस्यास्य विधास्यति ॥६७॥

साभिमानैस्साभिमानं युध्यमानैश्शिरोबले ।

इहास्माभिश्शिरोदेयं न तु देयं यशो रणे ॥६८॥

यशसे दयितां स्वीयां दशास्यदमनो जहौ ।

यशसे दानवाधीशो बलिः पातालमाययौ ॥६९॥

यशसे दानवारातिः कामठीं तनुमाददे ।

यशसे स्वयमुत्कृत्योत्कृत्य मांसं शिबिर्ददौ ॥७०॥

यशसे खंडपरशुः सद्यो हालाहलं पपौ ।

यशसेऽस्थीन्यहोत्कृत्य दधीचिस्सद्गतिं ययौ ॥७१॥

यशसे काश्यपीं सर्वामत्यजज्जमदग्निजः ।

यशसे शरशय्यायामशेत स्वर्णदीसुतः ॥७२॥

तदद्य यशसेऽर्थाय प्रतियोत्स्यामहे परान् ।

यावन्न प्रहरन्त्येते वीक्ष्य वीक्ष्य वरान् वरान् ॥७३॥

इत्युक्तवति बल्लाळे योधास्तस्य सहस्रशः ।

सद्यस्तद्दुर्गमास्थाय विनेदुर्द्विरदा इव ॥७४॥

अथ प्रतिभटान् दृष्ट्वा कृतवप्रावलंबनान् ।

कावुकस्समराकांक्षी स्वान् सैन्यानिदमब्रवीत् ॥७५॥

कावुक उवाच

अहो शिवस्य विषयं संप्राप्तो विजिगीषया ।

बलवानेष बल्लाळो वप्रमाश्रित्य तिष्ठति ॥७६॥

अस्मदीयमिदं ह्येष समाश्रित्य शिरोबलम् ।

अहो दर्शयते मन्दमतिरात्मशिरोबलम् ॥७७॥

न सन्त्यट्टास्तथा चास्य नह्यस्ति परिखा तथा ।

अतो न दुर्गमं दुर्गमदो जानीत सैनिकाः ॥७८॥

क्रियतां परिवेषोऽस्य परितोऽध्वा निरुध्यताम् ।

क्षणेनैकेन निखिला परिखापि प्रपूर्यताम् ॥७९॥

विहंगमानिवोदग्रक्रमानात्मतुरंगमान् ।

उत्पात्यादीयतामेतत् कुद्दालैर्वा विदार्यताम् ॥८०॥

उत्खन्यतामदः सद्यो मूळमस्य निखन्यताम् ।

किमु दुर्गमिदं लंका येनातंकाय जायताम् ॥८१॥

इत्युक्ताः कावुकेनोच्चैः सैनिकाः समरोध्दताः ।

सद्यस्तद्दुर्गमादातुमुपचक्रमिरेऽभितः ॥८२॥

परेप्यमून् पुरो वीक्ष्य सुरोध्दुरपराक्रमान् ।

मन्वानाः प्रधनारंभं धन्वान्यादुधुवुस्तमाम् ॥८३॥

उपरिष्टादिमान् द्रष्टुं यश्चकारोन्नतं शिरः ।

स सद्यच्छिन्नमूर्धत्वादभूत् केतुग्रहो यथा ॥८४॥

शाखाभ्य इव वृक्षाणां चंचरीकपरंपराः ।

शरासनेभ्यश्शूराणां निरीयुर्निशिताश्शराः ॥८५॥

क्रूराः कार्मुकमाकर्ण समाकृष्य महौजसः ।

शूराश्शिरांसि शूराणां निचकर्तुश्शितैश्शरैः ॥८६॥

कृतहस्तविनिर्मुक्ताः सायकाः पातुकाः क्षितिम् ।

विविशुस्तत्तलं चोच्चैः ददृशुश्च फणीश्वरम् ॥८७॥

रथांगैर्लागलैरक्षैर्मुसलैरप्युलूखलैः ।

उपलैश्च घरट्टैश्च प्रज्वलद्भिस्तथोल्मुकैः ॥८८॥

खादिरांगारपुंजैश्च तप्तैस्तैलैश्च भूरिशः ।

तैस्तैश्शस्त्रैश्च वप्रस्थाः प्रतिवीरानवाकिरन् ॥८९॥

हन्यमानैरपि परैः शिवसैन्यैरुदायुधैः ।

परिमंडलितं दुर्गमिदमभ्यधिकं बभो ॥९०॥

ततो गदाभिर्दिर्घाभिः परिघैरप्यनेकधा ।

तद्दुर्गं दारयामासुरुध्दताः केपि सैनिकाः ॥९१॥

केपि कुंताभिघातेन सुषिराणि प्रचक्रिरे ।

निश्रेणीरधिरुह्यान्ये तद्भित्तीः परिरेभिरे ॥९२॥

आरूढास्तुरगान् केपि गरूडानिव रंहसा ।

तदुत्पतितुमैहन्त हंत संप्रेक्ष्य सर्वतः ॥९३॥

कावुकस्तु गदादीनामायुधानामनेकधा ।

अभिघातेन महता दारयामास गोपुरम् ॥९४॥

स भिन्नगोपुरं वीरः प्राकारं प्राविशद्यदा ।

अभ्येत्य युयुधे तत्र येदिलानीकिनी तदा ॥९५॥

वडवाग्नीनिवाग्राह्यतमानभ्यागतानिमान् ।

प्रतिगृह्य प्रतिग्राह्यान् बल्लालो बलवान् बभौ ॥९६॥

दर्शनीयतमः प्रांशुः पिनध्दकवचो युवा ।

कुंतधारी धन्वधरो धीरः सैनिकसंवृतः ॥९७॥

तुंगं तुरंगमारूढः स तदाभ्यधिकं तथा ।

दिदीपे किल निर्वाणवेलायां दीपको यथा ॥९८॥

अथ भीकश्च मीमश्च तुको गोदः सदस्तथा ।

संभश्चान्येच सुभटाः पुरोविहितकावुकाह ॥९९॥

द्रुतमुत्पातितोदग्रतुरगास्तरलायुधाः ।

प्रहरंति स्म बल्लालप्रभृतींस्तीव्रया क्रुधा ॥१००॥

ततस्तेषां च तेषां च द्वेषांधतमसांतरे ।

आयुधान्यायुधीयानामन्योन्यं परिरेभिरे ॥१०१॥

समरारंभसंरभादन्योन्यमभियायिनाम् ।

तार्क्ष्यस्फुरत्तरतरतुरगस्थितिशालिनाम् ॥१०२॥

प्रत्यहन्यंत शतशः शस्त्रैः शस्त्राणि शस्त्रिणाम् ।

विद्युतामिव तेजोभिर्दिवि तेजांसि विद्युताम् ॥१०३॥

कुंतपाणिः कुंतधरं धन्वधारी धनुर्धरम् ।

गदी जघान गदिनं तदानीं शकलीभवन् ॥१०४॥

न चर्मिणं विना चर्मी न वर्मी वर्मिणं विना ।

युयुधे प्रधनेऽमुष्मिन्न धन्वी धन्विनं विना ॥१०५॥

उरच्छदमनिर्भिद्य द्रुतमुत्पातिताः शराः ।

क्षणं नभस्यभासंत यथा वैभाकराः कराः ॥१०६॥

भटान् सारेच्छदान् भित्वा वसुधां विविशुः शराः ।

ततो रुधिरधाराणामाविरासुः परंपराः ॥१०७॥

क्रुद्धहस्तवदुन्मुक्तपृषत्कोत्कृत्तमस्तकाः ।

क्षरद्रुधिरदिग्धांङ्गाः कबंधास्तत्र चुक्रुधुः ॥१०८॥

ततो धरातले पेतुर्मातंगानां तताः कराः ।

शरैश्शकलितांगानं तुरंगाणांच कंधराः ॥१०९॥

शरासनधरैश्शूरैः शरच्छिन्नान्यनेकशः ।

परितस्तरिरेऽरीणां शिरांसि समराजिरे ॥११०॥

कंचित्प्रसभमभ्येत्य गदापाणिमुपागतम् ।

संग्रामसागरग्राहमभिजग्राह कश्चन ॥१११॥

तत्रान्यच्छिभमेकं यः स्वं हस्तं नावबुद्धवान् ।

स एकेनैव हस्तेन हस्तीवाभिययौ परान् ॥११२॥

पंचविंशतिमिंगालः पोलः पंच च सप्त च ॥

चोरश्चतुर्दश तथा नवाष्टौ षट्च घांटिकः ॥११३॥

निजघान क्षणात्तत्र वीरान् व्याघ्रश्च षोडशः ।

एकोनविंशाः सुभटाः कावुकेन निषूदिताः ॥११४॥

प्रहतानेकपत्यश्च द्विपवर्ष्मसमुद्भवा ।

प्रावर्तत तदा तत्र रयाद्रक्ततरंगिणी ॥११५॥

पराभूय परे वीराः परिवव्रुर्यदा बलात् ।

तदाभयाद्विदुद्राव बल्लालबलमाहवात् ॥११६॥

हैबतस्यात्मजस्तत्र शत्रुभिर्विमुखीकृतम् ।

न चक्षमे स्थिरीकर्तुं तदलं विचलद्बलम् ॥११७॥

अथाद्धा स किल स्पर्धामादायोद्यमितायुध ।

रयादभीयाय परान् रुषा वृत्र इवामरान् ॥११८॥

यावन्तः किल तस्यासन्निषुधिद्वितयी शराः ।

तावन्तः पातितास्तेन कावुकीयाह पुरस्सराः ॥११९॥

स यावत् प्रासमादाय त्रासयत्यभितः परान् ।

तावत् कुंताभिघातेन कावुकस्तमपातयत् ॥१२०॥

युध्यमानेऽभिमानेन सिंहेनेवोन्मदे गजे ।

शिवसेनधिपतिना पापिते हैबतात्मजे ॥१२१॥

रक्तमेदोवसामांसमसृणे क्षोणिमंडले ।

कोपि धर्तुमहो धैर्यं प्रभुरासीन्न तद्बले ॥१२२॥

तत्र दंताग्रविन्यस्ततृणास्त्राणार्थिनो जनाः ।

शतशः स्वैरमगमन् विमुक्तास्तेन मानिना ॥१२३॥

केपि युद्धाभिमानेन युध्यमानाः प्रमन्यवः ।

सायकैश्शकलीभूताः शतक्रतुपदं ययुः ॥१२४॥

केचन च्छिन्नचरणाः केचन च्छिन्नपाणयः ।

केचन च्छिन्नवर्माणः केतन च्छिन्नवक्षसः ॥१२५॥

छिन्नत्रिकास्तथा केचित् केचिच्छिन्नकफोणयः ।

रणंतः करुणं मम्लुर्विंलुठंतो महीतले ॥१२६॥

अथ विद्विषतस्तस्य शयानस्य रणांगणे ।

कुंजरांस्तुरगांस्तुंगांस्तत्तदाभरणानि च ॥१२७॥

चित्राण्यपि च वस्त्राणि तनुत्राण्यायुधानि च ।

याप्ययानानि कोषांश्च संभारानपरानपि ॥१२८॥

संप्रहृष्टास्समादाय सुभटाः कावुकादयः ।

षुरंदरप्रभुं द्रष्टुं पुरंदरगिरिं ययुः ॥१२९॥

अपहतरिपुवीरानेकयाश्वप्रवेक –

प्रचुरकनकमुक्ताहाररत्नोपहाराः ।

कवनमिताशिरस्काः सैनिकाः कावुकाद्याः

सरभसकृतकार्याः शाहसूनुं प्रणेमुः ॥१३०॥

इत्यनुपुराणे कवींद्रपरमानंदप्रकाशितायां संहितायां त्रयोदशोध्यायः ॥१३॥