शिवभारत अध्याय सोळावा

अथाभिमतलाभेन महमूदेऽतिनिर्वृते । स्वयं तु पुतुरर्थाय वितीर्णे सिंहपर्वते ॥१॥ आहूय स्वर्णशर्माणमग्रजन्मानमन्तिके । शिवोद्धा मंत्रवित्तत्तन्मंत्रवेदिनमब्रवीत् ॥२॥

शिवभारत अध्याय सोळावा

कवींद्र उवाच ।

अथाभिमतलाभेन महमूदेऽतिनिर्वृते ।

स्वयं तु पुतुरर्थाय वितीर्णे सिंहपर्वते ॥१॥

आहूय स्वर्णशर्माणमग्रजन्मानमन्तिके ।

शिवोद्धा मंत्रवित्तत्तन्मंत्रवेदिनमब्रवीत् ॥२॥

शिव उवाच ।

जानतामतिमूर्धन्यं यं धन्यं जानते जनाः ।

स मां नूनं न जानीते महाराजो महामनाः ॥३॥

अजानानो न जानातु सुखेनैव सतो गुणान् ।

जानानो यन्न जानीते तद्दुनोति हि सन्मनः ॥४॥

सोऽज्ञास्यद्यर्हि मां तर्हि नादास्यत्सिह्मपर्वतम् ।

कोऽन्यथा तरसा जेष्यत्तमिम मत्करस्थितम् ॥५॥

अप्रमत्तोपि यो मत्तो द्विषते सिह्मपर्वतम् ।

आदापयद्येदिलाय किं वक्ष्ये तं महाव्रतम् ॥६॥

स्वयं नियंता विश्वस्य विश्वस्य बत वैरिषु ।

सुखं सुप्तो निजगृहे ततो निजगृहेऽरिभिः ॥७॥

नावज्ञेयाः खलु ज्ञेन वराका अपि विद्धिषः ।

प्रशाम्यते पतंगेन प्रज्वलन्नपि दीपकः ॥८॥

दीपं विनाशयन्नेव पतंगश्चेद्विउनश्यति ।

तुल्यतां कस्तयोस्तर्हि जात्यंध इव पश्यति ॥९॥

नूनं पीपीलकोऽप्येकः प्रविश्य करिणः करम् ।

भवत्यंकरस्तस्मादल्पं मन्येत नो परम् ॥१०॥

अहो महाबाहुरसौ जानानोऽपि महानयम् ।

गणयत्येव न परानस्य दोषो महानयम ॥११॥

अरातिनिगृहीतेन शाहेन गुरुणा मम ।

यः प्राप्त श्चिररात्राय कारागारपरिश्रमः ॥१२॥

तस्य निर्यातनं कर्तुं संप्रवृत्तोस्मि सर्वथा ।

यवनान्तात् प्रवृत्ताद्यप्रभृत्यत्रास्तुमत्प्रथा ॥१३॥

यः परस्माद्विभेत्युच्चैः परस्तस्माद्विभेति च ।

न बिभेति परस्माद्यः परस्तस्माद्विभेति हि ॥१४॥

नूनं मया निहंतव्यास्ते ते यवननायकाः ।

शरधिद्वितयस्यैते तेजितास्संति सायकाः ॥१५॥

विजयाह्वपुरग्राहोत्सुकं संप्रति मन्मनः ।

अतोऽद्य नोद्यसे सद्यो नियुज्यंतां तुरंगिणः ॥१६॥

सुवर्णशर्मोवाच ।

दुरंतं बलवद्वैरं दुरंतः पापसंचयः ।

दुरंताभ्यर्हिता गर्हा दुरंता गुरुगर्हणा ॥१७॥

विधाय बलवद्वैरं तव तातः कृताग्रहः ।

नाभूदवहितो यर्हि तदर्हस्तर्हि निग्रहः ॥१८॥

स प्रभावी महाराजो मंत्रिणस्तस्य सुव्रताः ।

तेन यद्वलवद्वैरं कृतं सोपनयः कृतः ॥१९॥

तनुते यद्यलं वैरमबलीयान् बलीयसा ।

तर्हि तस्य पराभावे सर्वथा प्रभुरेव सः ॥२०॥

दानमभ्यधिके शत्रौ समे साम विधीयते ।

ऊने दंडविधिः प्रोक्तो भेदः साधारणः स्मृतः ॥२१॥

दिने दिने भवन्नूनः समः साम्यं विमुंचति ।

आधिक्यं चाधिको येन को भेदं न प्रशंसति ॥२२॥

नरेंद्र नूनमूनोपि द्वेषणो भेदमर्हति ।

ऊनस्याप्यूनतात्यर्थं हितायैव भवेद्युधि ॥२३॥

ऊनोपि यदि दूनोयमिति मत्वाऽनुनीयते ।

तर्ह्यंतः श्लाघ्यमानोऽसौ स्वमेव बहुमन्यते ॥२४॥

ऊनानामप्यनूनत्वमनूनानां तथोनता ।

दृश्यते मनुजाधीश समयांतरवैभवात् ॥२५॥

तस्मादूने नरेंद्रेण द्विषि दंडो विधीयते ।

मते पत्युरपां येन मनस्सम्यङ्निधीयते ॥२६॥

समर्थश्चासमर्थश्चेत्युपायो द्विविधो मतः ।

द्वितीयो ह्यवकेशी स्यात् प्रथमस्तु फलेग्रहिः ॥२७॥

योषितस्सारहारिण्यो मदिरा मोहदायिनी ।

दुरोदरं धनहरं कादर्यं कार्यहानिकृत् ॥२८॥

वाक्पारुष्यमलक्ष्मीकं मृगया पापकारिणी ।

नरेंद्र दंडपारुष्यमत्यर्थमयशस्करम् ॥२९॥

तस्मादेतानि सप्तानि व्यसनानि परित्यजेत् ।

बतान्यतममप्येषां मतिभ्रंशाय जायते ॥३०॥

येषामेकतरेणापि मतिभ्रंशो विधीयते ।

तान्यनेकानि संसेव्य कः पुमान्नप्रहीयते ॥३१॥

नीतिशास्त्रेषु विरसं निजकार्यभरालसम् ।

मानुषं विजहाति श्रीर्व्यसनापन्नमानसम् ॥३२॥

मुष्णंत्युच्चैः प्रमत्तेऽस्मिन् कोशं कोशाधिकारिणः ।

तुदंति च दुरात्मानो राष्ट्रं राष्ट्राधिकारिणः ॥३३॥

तत्तद्व्यसनसक्तस्य वैचित्यमुपचीयते ।

वैचित्योपचयादुचैरौचित्यमपचीयते ॥३४॥

औचित्यापचयादेनं जनस्सर्वोऽवमन्यते ।

विनियुक्ताश्च कार्येशु नव तान्याशु कुर्वते ॥३५॥

अथ क्रोधोद्धुरोत्युच्चैरुच्चरन् रुशतीं गिरम् ।

दिने दिने तुदत्येतान् समेतानपि संसदि ॥३६॥

ततो ह्यनुक्षणकृतासूर्क्षणक्षतचेतसः ।

परोक्षे परिभाषंते यथाचोपहसंत्यमुम् ॥३७॥

ततो मुंचंत्यमुं केऽपि केऽप्यमुष्मिन्नुदासते ।

केचिद्विपक्षपक्षांतर्निपत्य सुखमासते ॥३८॥

प्रकोपनममुं मत्वा शपंत्येव तु केचन ।

भजंति न यथापूर्वमत्यजंतोऽपि केचन ॥३९॥

सप्तव्यसनसक्तत्वादजानानच्छलं बलम् ।

मन्यते प्रभुमात्मानमहंकारेण केवलम् ॥४०॥

व्यसनासक्तचित्तेन येनेत्थं बत भूयते ।

जैत्रयात्रापरैस्सद्यः परैस्स परिभूयते ॥४१॥

गिरयो नैव गुरवो गुरुरेव गुरुर्मतः ।

भवतात्र प्रभवता दत्तः सिह्माचलस्ततः ॥४२॥

प्रदत्ते द्विषतेऽमुष्मिन् विमुक्तश्चेत् स पार्थिवः ।

तर्हि दत्तोपि भवता न दत्तः सिह्मपवर्तः ॥४३॥

यः सिह्मपर्वतः मेने समं शाहसुमेरुणा ।

विंगरूरं च नगरं किं कृतं तेन वैरिणा ॥४४॥

उपक्रांतमिदानीं तु त्वया विजयमंडलम् ।

सुविक्रांतस्य नृपतेः सर्वमेव महीतलम् ॥४५॥

राजा तावत्ततो मंत्री सुहृदो विपुलं धनम् ।

राष्ट्रं दुर्गाणि सैन्यानि राज्यस्यांगानि सप्त वै ॥४६॥

एतैरविकलैर्युक्तं राज्य्म सद्भिः प्रशस्यते ।

एकेनापि विहीनं तदितरैरुपहस्यते ॥४७॥

मौळिर्नृपो मुखं मंत्री धनसैन्ये भुजद्रयम् ।

राष्ट्रमन्यद्वपुस्सर्वं सुहृदस्संधयो दृढाः ॥४८॥

दुर्गाणि तु दृढान्युच्चैस्तदस्थीनि तदंतरा ।

एवमंगानि राज्यस्य सप्तोक्तानि मनीषिभिः ॥४९॥

सप्तांगस्यास्य राज्यस्य धर्म आत्माऽभिधीयते ।

मंत्रः प्राणो बलं नीतिरनीतिरसमर्थता ॥५०॥

दंडो यथोचितः शौर्यमधर्मो रिपुरुद्धतः ।

मदः परस्परं भेदो दीर्घमायुरभेद्यता ॥५१॥

जनरंजनमुत्कर्षो दर्शन दीर्घदर्शिता ।

प्रतापः प्रोज्वलं रूपं विमला बुद्धिरायुधम् ॥५२॥

तथैव बलवद्वैरमंतरायः प्रकीर्तितः ।

प्रमादस्तु भवेन्निद्रा प्रबोधः सावधानता ॥५३॥

समं च विषमं चेति वैरं द्विविधमुच्यते ।

प्रथमं तु समेनाहुर्द्वितीयमधिकेन चेत् ॥५४॥

समे समत्वादुभयोर्न भवेद्विजयः खलु ।

अधिकस्याधिकत्वेन विषमे विजयो ध्रुवम् ॥५५॥

फतेखानप्रभंगेन मुसेखानवधेन च ।

अहर्दिवं प्रभो तुभ्यं महमूदोऽभ्यसूयति ॥५६॥

पश्य येदिलदिल्लींद्रौ विषयानतंरौ तव ।

यवनौ बलिनौ तुभ्यं द्रुह्यतोऽहर्निशं नृप ॥५७॥

अमू उभयतो यस्य द्वेषणौ रोषणौ तव ।

तस्य नूनमिहस्थाने स्थितिः स्थाने न संप्रति ॥५८॥

अतोऽतिदुर्गमं स्थानमास्थाय जगतीपते ।

यतस्व जगतीं जेतुं किमजय्यं शिवस्य ते ॥५९॥

कंठेकालेन कैलासः स मेरुः शंबपाणिना ।

अभ्यंतरमपां पत्युः शिश्रिये दनुजारिणा ॥६०॥

न दुर्गं दुर्गमित्येव दुर्गमं मन्यते जनः ।

तस्व्य दुर्गमता सैव यत्प्रभुस्तस्य दुर्गमः ॥६१॥

प्रभुणा दुर्गमं दुर्गं प्रभुर्दुर्गेण दुर्गमः ।

अदुर्गमत्वादुभयोर्विद्विषन्नव दुर्गमः ॥६२॥

संति ते यानि दुर्गाणि तानि सर्वाणि सर्वथा ।

यथा सुदुर्गमाणि स्युस्तथा सद्यो विधीयताम् ॥६३॥

सुवर्णशर्मणोवाचमिमां श्रुत्वा नृपोत्तमः ।

माननीयोऽतिमहतां माननीयाममन्यत ॥६४॥

प्रभुत्वं बिभ्राणस्त्रिभुवनपरित्राणकरणे ।

पितृद्वेषिद्वेषी तदनुतनुजः शाहनृमणेः ।

निरातंकस्सक्तो यवनकदनायातिमहते ।

समयामप्युर्वीममनुत वसंतीं करतले ॥६५॥

इत्यनुपुराणे निवासकरकवींद्र परमानंदप्रकाशितायां षोडशोऽध्यायः ॥